संकटनाशक गणेश स्तोत्र




संकटनाशक गणेश स्तोत्र
 

 इस स्त्रोत का पाठ रोज १,३,५,७,११ करे।। इसका पाठ करने से संकट नाश होते है।।
 
ॐ श्री गणेशाय नमः 

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम | भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये || 
प्रथमं वक्रतुंण्डं च एकदन्तं द्वितीयकम | तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम || 
लम्बोदरं पंचमं च षष्ठं विकटमेव च |सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम || 
नवमं भालचन्द्रं च दशमं तु गजाननम | एकादशं गणपतिं द्वादशं तु गजाननम || 
द्वादशैतानि नामामि त्रिसन्ध्यं य: पठेन्नर:| न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो || 
विद्यार्थी लभते विद्यां धनार्थी लभते धनम | पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम || 
जपेद गणपतिस्तोत्रं षडभिर्मासै: फलं लभेत | संवत्सरेण सिद्धिं च लभते नात्र संशय: || 
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत | तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ||